|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.145. अध्यायः 145
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
जमदग्निना सौरातपतापनिवारणोपायकल्पनं चोदितेन सूर्येण तस्मै छत्रोपानत्प्रदानम्॥ 1 ॥ एवं भीष्मेण युधिष्ठिरंप्रति तत्प्रवृत्तिकथनपूर्वकं तद्वानप्रशंसनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
एवं प्रयाचति तदा भास्करे मुनिसत्तमः।
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत॥ 13-145-1(87041)
भीष्म उवाच। 13-145-2x(7298)
स तथा याचमानस्य मुनिरग्निसमप्रभः।
जमदग्निः शमं नैव जगाम कुरुनन्दन॥ 13-145-2(87042)
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्।
कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशाम्पते॥ 13-145-3(87043)
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः।
कतं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम्॥ 13-145-4(87044)
जमदग्निरुवाच। 13-145-5x(7299)
स्थिरं चापि चलं चापि जाने त्वां ज्ञानचक्षुषा।
अवस्यं विनयाधानं कार्यमद्य मया तव॥ 13-145-5(87045)
मध्याह्ने वै निमेषार्धं तिष्टसि त्वं दिवाकर।
तत्र भेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा॥ 13-145-6(87046)
सूर्य उवाच। 13-145-7x(7300)
असंशयं मां विप्रर्षे भेत्स्यसे धन्विनांवर।
अपकारिणं मां विद्दि भगवञ्शरणागतम्॥ 13-145-7(87047)
भीष्म उवाच। 13-145-8x(7301)
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम्।
न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि॥ 13-145-8(87048)
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले।
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च॥ 13-145-9(87049)
दीप्तिमग्नेः प्रभां मेरोः प्रतापं धनदस्य च।
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम्॥ 13-145-10(87050)
भवेत्स गुरुतल्पी च ब्रह्मिहा च स वै भवेत्।
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम्॥ 13-145-11(87051)
एतस्य त्वपनीतस्य समाधिं तात चिन्तय।
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः॥ 13-145-12(87052)
भीष्म उवाच। 13-145-13x(7302)
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः।
अथ सूर्योऽददत्तस्मै छत्रोपानहमाशु वै॥ 13-145-13(87053)
सूर्य उवाच। 13-145-14x(7303)
महर्षे शिरसस्त्राणां छत्रं मद्रश्मिवारणम्।
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके। 13-145-14(87054)
अद्यप्रभृति चैवेह लोके सम्प्रचरिष्यति।
पुण्यकेषु च सर्वेषु परमक्षय्यमेव च॥ 13-145-15(87055)
भीष्म उवाच। 13-145-16x(7304)
उपानहौ च च्छत्रं च सूर्येणैतत्प्रवर्तितम्।
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत॥ 13-145-16(87056)
तस्मात्प्रयच्छ विप्रेषु छत्रोपानहमुत्तमम्।
धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा॥ 13-145-17(87057)
छत्रं हि भरतश्रेष्ठः यः प्रदद्याद्द्विजातये।
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते॥ 13-145-18(87058)
स शक्रलोके वसति पूज्यमानो द्विजातिभिः।
अप्सरोभिश्च सततं देवैश्च भरतर्षभ॥ 13-145-19(87059)
उपानहौ च यो दद्याच्छ्लक्ष्णौ स्नेहसमन्वितौ।
स्नातकाय महाबाहो संशिताय द्विजातये॥ 13-145-20(87060)
सोपि लोकानवाप्नोति देवतैरभिपूजितान्।
गोलोके स मुदा युक्तो वसति प्रेत्य भारत॥ 13-145-21(87061)
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्।
छत्रोपानहदानस्य फलं भरतसत्तम॥ ॥ 13-145-22(87062)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः॥ 145 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-145-4 निमित्तं लक्ष्यम्॥ 7-145-9 ब्राह्मणेष्वपि यज्झानमिति ट.ध.पाठः॥ 7-145-12 अपनीतस्यापनयस्य सन्तापनरूपस्य समाधिं समाधानम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|